|
|
 |
 |
|
|
१६आश्रमवासिकपर्व.jpg)
॥ श्रीः ॥
16.20. अध्यायः 020
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
धृतराष्ट्रेण विदुरादिभिः सह गङ्गातीरात्कुरुक्षेत्रमेत्य तत्र शतयूपाश्रमे व्यासाज्ञया तदुपदिष्टविधिना तीव्रतपश्चरणम्॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
ततो भागीरथीतीरे मेध्ये पुण्यजनोचिते।
निवासमकरोद्राजा विदुरस्य मते स्थितः॥ 16-20-1(97729)
तत्रैनं पर्युपातिष्ठन्ब्राह्मणा वनवासिनः।
क्षत्रविट्शूद्रसङ्खाश्च बहवो भरतर्षभ॥ 16-20-2(97730)
स तैः परिवृतो राजा कथाभिः परिनन्द्य तान्।
अनुजज्ञे स शिष्यान्वै विधिवत्प्रतिपूज्य च॥ 16-20-3(97731)
सायाह्ने स महीपालस्ततो गङ्गामुपेत्य च।
चकार विधिवच्छौचं गान्धारी च यशस्विनी॥ 16-20-4(97732)
ते चैवान्ये पृथक् सर्वे तीर्थेष्वाप्लुत्य भारत।
चक्रुः सर्वाः क्रियास्तत्र पुरुषा विदुरादयः॥ 16-20-5(97733)
कृतशौचं ततो वृद्धं श्वशुरं कुन्तिभोजजा।
गान्धारीं च पृथा राजन्गङ्गातीर्थमुपानयत्॥ 16-20-6(97734)
राज्ञस्तु याजकैस्तत्र कृतो वेदीपरिस्तरः।
जुहाव तत्र वह्निं स नृपतिः सत्यसङ्गरः॥ 16-20-7(97735)
ततो भागीरथीतीरात्कुरुक्षेत्रं जगाम सः।
सानुगो नृपतिर्वृद्धो नियतः संयतेन्द्रियः॥ 16-20-8(97736)
तत्राश्रमपदं धीमानभिगम्य स पार्थिवः।
आससादाथ राजर्षिं शतयूपं मनीषिणम्॥ 16-20-9(97737)
स हि राजा महानासीत्केकयेषु परंपतः।
स्वपुत्रं मनुजैश्वर्ये निवेश्य वनमाविशत्॥ 16-20-10(97738)
तेनासौ सहितो राजा ययौ व्यासाश्रमं प्रति।
तत्रैनं विधिवद्राजन्प्रत्यगृह्णात्कुरूद्वहम्॥ 16-20-11(97739)
स दीक्षां तत्र संप्राप्य राजा कौरवनन्दनः।
शतयूपाश्रमे तस्मिन्निवासमकरोत्तदा॥ 16-20-12(97740)
तस्मै सर्वं विधिं राज्ञे राजाऽऽचख्यौ महामतिः।
आरण्यकं महाराज व्यासस्यानुमते तदा॥ 16-20-13(97741)
एवं च तपसा राजन्धृतराष्ट्रो महामनाः।
योजयामास चात्मानं तांश्चाप्यनुचरांस्तदा॥ 16-20-14(97742)
तथैव देवी गान्धारी वल्कलाजिनधारिणी।
कुन्त्या सह महाराजि समानव्रतचारिणी॥ 16-20-15(97743)
कर्मणा मनसा वाचा चक्षुषा चैव ते नृप।
सन्नियम्येन्द्रियग्राममास्थिताः परमं तपः॥ 16-20-16(97744)
त्वगस्थिभूतः परिशुष्कमांसो
जटाजिनी वल्कलसंवृताङ्गः।
स पार्तिवस्तत्र तपश्चचार
महर्षिवत्तीव्रमपेतमोहः॥ 16-20-17(97745)
क्षत्ता च धर्मार्थविदग्र्यबुद्धिः
ससंजयस्तं नृपतिं सदारम्।
उपाचरद्धोरतपोर्जितात्मा
तदा कृशो वल्कलचीरवासाः॥ ॥ 16-20-18(97746)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि विंशोऽध्यायः॥ 20 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|